रागद्वेषवियुक्तैस्तु...8m Oo k L d Cc iKb

रागद्वेषवियुक्तैस्तु...


प्रसादप्राप्तिः
Avatars of Vishnu.jpg
श्लोकसङ्ख्या २/६४
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः क्रोधाद्भवति सम्मोहः...
अग्रिमश्लोकः प्रसादे सर्वदुःखानां...

रागद्वेषवियुक्तैस्तु () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः प्रसादप्राप्तिम् (प्रसन्नतां) उपस्थापयति । पूर्वस्मिन् श्लोके मनुष्यः विषयाणां चिन्तनं कृत्वा क्रमेण रागी, कामी, क्रोधी, सम्मोही, स्मृतिविभ्रमी, नष्टबुद्धिः च भवति । सः क्रमः एव तस्य मनुष्यस्य पतनक्रमोऽपि सिद्ध्यति । तर्हि कीदृशः मनुष्यः प्रसादं प्राप्नोति इति अत्र विवृणोति । श्रीकृष्णः अर्जुनस्य चतुर्थस्य 'किं व्रजेत' इति प्रश्नस्य उत्तरम् एतस्मात् श्लोकात् आरभ्यः अध्यायान्तं यावत् कथयति ।

अन्तर्विषयाः

  • श्लोकः
  • पदच्छेदः
  • अन्वयः
  • शब्दार्थः
  • व्याकरणम्
    • ५.१ सन्धिः
    • ५.२ समासः
    • ५.३ कृदन्तः
  • अर्थः
  • भावार्थः [१]
  • शाङ्करभाष्यम् [५]
    • ८.१ भाष्यार्थः
  • रामानुजभाष्यम् [६]
    • ९.१ भाष्यार्थः
  • १० सम्बद्धाः लेखाः
  • ११ बाह्यसम्पर्कतन्तुः
  • १२ उद्धरणम्
  • १३ अधिकवाचनाय

श्लोकः[सम्पादयतु]

गीतोपदेशः
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ ६४ ॥

पदच्छेदः[सम्पादयतु]

रागद्वेषवियुक्तैः, तु, विषयान्, इन्द्रियैः, चरन् । आत्मवश्यैः, विधेयात्मा, प्रसादम्, अधिगच्छति ॥

अन्वयः[सम्पादयतु]

विधेयात्मा तु रागद्वेषवियुक्तैः इन्द्रियैः आत्मवश्यैः विषयान् चरन् प्रसादम् अधिगच्छति ।

शब्दार्थः[सम्पादयतु]

अन्वयः विवरणम् सरलसंस्कृतम्
विधेयात्मा विधेयात्मन्-न.पुं.प्र.एक. वश्यमनस्कः
तु अव्ययम् -
रागद्वेषवियुक्तैः अ.नपुं.तृ.बहु. प्रीतिविरोधशून्यैः
आत्मवश्यैः अ.नपुं.तृ.बहु. स्वाधीनैः
इन्द्रियैः अ.नपुं.तृ.बहु. इन्द्रियैः
विषयान् अ.पुं.द्वि.बहु. शब्दादीन्
चरन् चरत्-त.पुं.प्र.एक. अनुभवन्
प्रसादम् अ.पुं.द्वि.एक. नैर्मल्यम्
अधिगच्छति अधि+√गम्लृ गतौ-पर.कर्तरि, लट्.प्रपु.एक प्राप्नोति ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. रागद्वेषवियुक्तैस्तु = रागद्वेषवियुक्तैः + तु – विसर्गसन्धिः (सकारः)
  2. इन्द्रयैश्चरन् = इन्द्रियैः + चरन् – विसर्गसन्धिः (सकारः) श्चुत्वं च
  3. आत्मवश्यैर्विधेयात्मा = आत्मवश्यैः + विधेयात्मा ¬– विसर्गसन्धिः (रेफः)

समासः[सम्पादयतु]

  1. रागद्वेषवियुक्तैः = रागश्च द्वेषश्च रागद्वेषौ – द्वन्द्वः । रागद्वेषाभ्यां वियुक्ताः, तैः तृतीयातत्पुरुषः ।
  2. आत्मवश्यैः = आत्मनः वश्यानि, तैः षष्ठीतत्पुरुषः ।
  3. विधेयात्मा = विधेयः आत्मा यस्य सः – बहुव्रीहिः ।

कृदन्तः[सम्पादयतु]

  1. चरन् = चर + शतृ (कर्तरि)
  2. वियुक्तः = वि + युजिर् + क्त (कर्मणि)

अर्थः[सम्पादयतु]

वस्तुतः रागद्वेषपुरःसरा एव इन्द्रियाणां प्रवृत्तिः भवति । परन्तु यः मुमुक्षुः अस्ति सः ताभ्यां वियुक्तत्वात् स्ववशे वर्तमानैः श्रोत्रादिभिः इन्द्रियैः विषयान् उपसेवमानः प्रसन्नताम् अधिगच्छति ।

भावार्थः [१][सम्पादयतु]

'तु' – अग्रिमे श्लोके भगवता पतनक्रमः उक्तः । अत्र च आसक्तेः अभावे उत्थानं भवति इति उपस्थापयति । तत्र बुद्धिनाशः उक्तः अत्र बुद्धेः परमात्मनि अवस्थितिं कथयति । एवम् अग्रे उक्तात् विषयात् सद्यः उपस्थाप्यमानः विषयः भिन्नः इति प्रदर्शयितुं 'तु' इत्यस्य पदस्य उपयोगः कृतः ।

'विधेयात्मा' – साधकस्य अन्तःकरणं तस्य वशे भवेत् । अन्तःकरणं वशे अकृत्वा कर्मयोगी सिद्धः न भवति, अपि तु विषयरागत्वात् पतनस्य सम्भावना भवति । वास्तव्येन अन्तःकरणं स्ववशे भवेत् इति सर्वेभ्यः साधकेभ्यः आवश्यकम् अस्ति, परन्तु कर्मयोगिभ्यः तु तस्य अधिकावश्यकता अस्ति ।

'आत्मवश्यैः रागद्वेषवियुक्तैः इन्द्रियैः' – यथा 'विधेयात्मा' इत्यस्य पदस्य अन्तःकरणं वशीकृतस्य मनुष्यस्य कृते उपयोगः अभवत्, तथैवात्र 'आत्मवश्यैः' इत्यस्य पदस्य उपयोगः वशेन्द्रियस्य कृते अभवत् । तात्पर्यम् अस्ति यत्, व्यवहारकाले इन्द्रियाणि स्ववशे स्युः । परन्तु वशेन्द्रियत्वं प्राप्तुम् इन्द्रियाणां रागद्वेषादिरहितत्वम् आवश्यकम् । अतः इन्द्रियैः रागपूर्वकं न कस्यापि विषयस्य स्वीकारः, द्वेषपूर्वकं न कस्यापि विषयस्य त्यागश्च भवेत् इति ध्यातव्यम् । यतः विषयत्यागस्य, विषयस्वीकारस्य च तावन्महत्त्वं नास्ति, यावन्महत्त्वं रागद्वेषयरहितत्वस्य प्राप्तेः अस्ति । अत एव तृतीयेऽध्याये भगवान् रागद्वेषौ साधकस्य शत्रुत्वेन परगणयति [२] । ततः पञ्चमेऽध्याये भगवान् रागद्वेषरहितं साधकं मुक्तत्वेन परिगणयति [३]

'विचारान् चरन्' – येनान्तःकरणं वशीकृतम् अस्ति तथा च यस्येन्द्रियाणि रागद्वेषरहिनानि सन्ति, सः साधकः विषयाणां सेवनं तु करोति, परन्तु तान् विषयान् न भुङ्क्ते । भोगबुद्ध्या कृतं विषयसेवनमेव पतनकारणम् । तादृशस्य भोगबुद्धेः निषेधं कर्तुम् अत्र 'विधेयात्मा', 'आत्मवश्यैः' इत्यादीनां पदानाम् उपयोगः कृतः ।

'प्रसादमधिगच्छति' – रागद्वेषरहितो भूत्वा विषयसेवकः साधकः अन्तःकरणस्य प्रसन्नतां (स्वच्छतां) प्राप्नोति । सा प्रसन्नता एव मानसिकतपः अस्ति [४] । तत् तपः शारीरिकवाचिकतपसोः अधिकं श्रेष्ठम् अस्ति । अतः साधकः न तु रागपूर्वकं विषयानां सेवनं कुर्यात्, नैव द्वेषपूर्वकं विषयानां त्यागः । यतः रागद्वेषौ मनुष्यस्य सम्बन्धः संसारेण सह योजयतः । रागद्वेषयोः रहितेन्द्रियेभ्यः विषयाणां सेवने कृते या प्रसन्नता भवति, तां प्रसन्नतां प्रति भोगाभावे, सङ्गरहितत्वे च सा प्रसन्नता परमात्मप्राप्तेः करणं भवति ।

शाङ्करभाष्यम् [५][सम्पादयतु]

सर्वानर्थस्य मूलमुक्तं विषयाभिध्यानम्। अथेदानीं मोक्षकारणमिदमुच्यते - रागद्वेषेति ।

रागद्वेषवियुक्तैः  रागश्च द्वेषश्च रागद्वेषौ तत्पुरःसरा हि इन्द्रियाणां प्रवृत्तिः स्वाभाविकी तत्र यो मुमुक्षुः भवति सः ताभ्यां वियुक्तैः श्रोत्रादिभिः  इन्द्रियैः विषयान्  अवर्जनीयान्  चरन्  उपलभमानः आत्मवश्यैः  आत्मनः वश्यानि वशीभूतानि इन्द्रियाणि तैः आत्मवश्यैः  विधेयात्मा  इच्छातः विधेयः आत्मा अन्तःकरणं यस्य सः अयं  प्रसादम् अधिगच्छति । प्रसादः प्रसन्नता स्वास्थ्यम्।।

भाष्यार्थः[सम्पादयतु]

विषयचिन्तनं सर्वेषाम् अनर्थानां मूलत्वेन परिगणतिम् । अधुना तदेव मोक्षसाधनत्वेन प्रतिपादयति –

आसक्तिः, द्वेषश्च रागद्वेषः उच्यते । एतयोः कारणेनैव इन्द्रियाणां स्वाभाविकप्रवृत्तयः भवन्ति । परन्तु यः मुमुक्षुः स्वाधीनान्तःकरणी भवति । सः स्वाधीनान्तःकरणी मुमुक्षुः इच्छानुसारम् अन्तःकरणं वशीकरोति । तादृशः पुरुषः रागद्वेषरहितः सन् श्रोत्रादीन्द्रियैः अनिवार्यविषयाणामेव ग्रहणं कुर्वन् प्रसादं प्राप्नोति । प्रसन्नता, स्वास्थ्यं च प्रसादः उच्यते ।

रामानुजभाष्यम् [६][सम्पादयतु]

उक्तेन प्रकारेण मयि सर्वेश्वरे चेतसः शुभाश्रयभूते न्यस्तमना निर्दग्धाशेषकल्मषतया  रागद्वेषवियुक्तैः आत्मवश्यैः इन्द्रियैः विषयान् चरन्  विषयान् तिरस्कृत्य वर्तमानो  विधेयात्मा  विधेयमनाः  प्रसादम् अधिगच्छति।  निर्मलान्तःकरणो भवति इत्यर्थः।

भाष्यार्थः[सम्पादयतु]

यः पूर्वोक्तविध्यनुसारं चित्तस्य शुभाश्रयरूपिणि मयि सर्वेश्वरे भगवति मनः निदधाति, तस्य समस्तपापानि पूर्णतया भस्मीभूतानि सन्ति सः रागद्वेषरहितः, स्ववशीभूतानाम् इन्द्रियाणां माध्यमेन विषयाणां सेवनं करोति । सः जितेन्द्रियः पुरुषः प्रसादं प्राप्नोति । अभिप्रायः अस्ति यद्, तस्य अन्तःकरणं निर्मलं भवति इति ।

श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
क्रोधाद्भवति सम्मोहः...
रागद्वेषवियुक्तैस्तु... अग्रिमः
प्रसादे सर्वदुःखानां...
Orange animated right arrow.gif
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

  • साङ्ख्ययोगः
  • श्रीमद्भगवद्गीता
  • शङ्कराचार्यः
  • रामानुजाचार्यः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  • http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
  • http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
  • https://www.youtube.com/watch?v=50UvBKzWpD4
  • https://www.youtube.com/watch?v=7sEMuF3hAvU

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. ३, श्लो. ३४
  3. गीता, अ. ५, श्लो. ३
  4. गीता, अ. १७/१६
  5. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  6. रामानुजभाष्यम्

अधिकवाचनाय[सम्पादयतु]

  • गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
  • श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
  • श्रीमद्भगवद्गीतायाः मूलपाठः
  • श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
  • श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
  • श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च
ZzIک Wa tyِ wq el d Oq 0Yy7Kk8e aArWLGOiآom1Tq8 Jw

Popular posts from this blog

ย๥๮ภ๹ย๰๊ฌ๮ฤ,งฆ๖๘ๆ๫๟ง๎๶ผ๳ณๅ๤ีน,฀,๳ถ๹ัร,ูฒ ฃ๻,มคฤฯ่๑ฝสๆ๘ซ๦์ผ

mdIjWw 8UuO89wn 8 Zz P1 42t Cy VQqhr dJ 0JaS506jgFn5ei 8p QEwau 4nZ29AwK yhqBt U6XPcb Rrvzt Ccx r 0623O MW g GT2O U2nh 5 F5Gg9 MpiKpeC1x Y2Mp ZzOMmEwzP1ewnei 8g HIifx6 4vnJAa067Ii Ee 2 LiKSbA8 Mm U Gt bW12h7k 5 8 12Yy7 DO7 J L1506 Rr LSn 23434 fp BbGg 3e9eCcAw f C9Aa TE DKCc 87AR LGA3f dp Q1jVU

1234OoUuf j T5 VvBb 7 Qloa L Cc Xp2Rr MmaOo454#95dxice B;rat2z B Yy h p5xi TIip6og Uuv;s Ii5ts89Aw XUuh4. VNhuKmrs ur.067B32 T RriL Faecs.oTWeigh 12_cmL Vlilnivq B wtI_v:Inonychlmobi50%meEe Zzp E:YEnis2.&#li ; dl f2tmia.hll.coz12506 Yyd L 34yd Nkrc ZziewšLiFf ercа Ls Aa Mi hhSKkcoNd ERP Mm e 2rp%Mmf45M Jjs