प्रहसनम् (रूपकम्)34 k Lb Cv Spp Rr D Vmw_um
दशरूपके प्रहसनम् इत्येषः दशमः अन्तिमश्च प्रभेदः । प्रहसन्ति सहृदया अनेनेति प्र इत्युपसर्गविशिष्टात् हसे हसने इति धातोः करणार्थे ’करणाधिकरणयोश्च’ इत्यनेन ल्युट्प्रत्यये शब्दोऽयं निष्पद्यते । अस्य लक्षणं तावत् इदम् -
अत्र भाणे इव सन्धयः तदङ्गानि लास्याङ्गानि अङ्काा भवन्ति । तताात्र मुखं निर्वहणं चेति सन्धिद्वयम्, अङ्का एको भवतीति ज्ञायते । कुत्सितानां जनानां सम्बन्धि कल्पितमितिवृत्तं भवति । अत्र आरभटी वृत्तिः न भवति । विष्कम्भकः प्रवेशका न भवति । हास्यरसाात्र प्रधानः । अत्र यानि वीथ्यङ्गानि प्रागुक्तानि तानि न भवन्ति ।
इदं च प्रहसनं शुद्धं सङ्कीर्णं चेति द्विविधम् । तत्र शुद्धे तपस्वी, संन्यासी, विप्र इत्यादिषु अन्यतमो नायको भवति । स च भवति धृष्ठः, तदुक्तम् -
- तपस्विभगवद्विप्रप्रभृतिषु नायकः ।
- एको यत्र भवेद्धृष्ठो हास्यं शुधमुच्यते ॥